वांछित मन्त्र चुनें
आर्चिक को चुनें

ते꣡ म꣢न्वत प्र꣣थमं꣢꣫ नाम꣣ गो꣢नां꣣ त्रिः꣢ स꣣प्त꣡ प꣢र꣣मं꣡ नाम꣢꣯ जानन् । ता꣡ जा꣢न꣣ती꣢र꣣꣬भ्य꣢꣯नूषत꣣ क्षा꣢ आ꣣वि꣡र्भु꣣वन्नरु꣣णी꣡र्यश꣢꣯सा꣣ गा꣡वः꣣ ॥६०६॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

ते मन्वत प्रथमं नाम गोनां त्रिः सप्त परमं नाम जानन् । ता जानतीरभ्यनूषत क्षा आविर्भुवन्नरुणीर्यशसा गावः ॥६०६॥

मन्त्र उच्चारण
पद पाठ

ते꣢ । अ꣣मन्वत । प्रथम꣢म् । ना꣡म꣢꣯ । गो꣡ना꣢꣯म् । त्रिः । स꣣प्त꣢ । प꣣रम꣢म् । ना꣡म꣢꣯ । जा꣣नन् । ताः꣢ । जा꣣नतीः꣢ । अ꣣भि꣢ । अ꣣नूषत । क्षाः꣢ । आ꣣विः꣢ । आ꣣ । विः꣢ । भु꣣वन् । अरुणीः꣢ । य꣡श꣢꣯सा । गा꣡वः꣢꣯ ॥६०६॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 606 | (कौथोम) 6 » 3 » 3 » 5 | (रानायाणीय) 6 » 3 » 5


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

वेदवाणियाँ परमात्मा का ही यश गाती हैं, यह कहते हैं।

पदार्थान्वयभाषाः -

हे अग्रनायक परमात्मन् ! (ते) प्रसिद्ध विद्वान् जन (नाम) आपके नाम को (प्रथमम्) श्रेष्ठ (अमन्वत) मानते हैं। (गोनां त्रिःसप्त) इक्कीस वेदवाणियाँ, अर्थात् गायत्री आदि इक्कीस छन्दोंवाली ऋचाएँ भी (नाम) आपके नाम को (परमम्) श्रेष्ठ (जानन्) जनाती हैं। (जानतीः) आपके नाम को सर्वश्रेष्ठ जनाती हुई (ताः) वे अर्थगर्भित वेदवाणियाँ (यशसा) आपके महिमागान-जनित यश से (अरुणीः आरोचमान होती हुई (आविर्भुवन्) अध्येताओं के हृदय में प्रकट हो जाती हैं, अपने रहस्यार्थ को खोल देती हैं ॥५॥

भावार्थभाषाः -

वेदवाणियाँ मिलकर जिस परब्रह्म की महिमा को गाते-गाते नहीं थकतीं और जिस यशस्वी परब्रह्म के माहात्म्य-कीर्तन से वे स्वयं भी यशोमयी हो गयी हैं, उसकी महिमा को हम भी क्यों न गायें? ॥५॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ वेदवाचः परमात्मन एव यशो गायन्तीत्याह।

पदार्थान्वयभाषाः -

हे अग्रणीः परमात्मन् ! (ते)२ प्रसिद्धा विद्वांसः (नाम) त्वदीयं नामधेयम् (प्रथमम्) श्रेष्ठम् (अमन्वत्) मन्यन्ते। (गोनां त्रिःसप्त) वेदवाचाम् एकविंशतिः अपि, सप्त गायत्र्यादीनि, सप्त अतिजगत्यादीनि, सप्त च कृत्यादीनि इति वेदानाम् एकविंशतिः छन्दांसि अपि इत्यर्थः। गवाम् इति प्राप्ते पादान्तत्वाद् ‘गोः पादान्ते। अ० ७।१।५७’ इति नुडागमः। (नाम) त्वदीयं नामधेयम् (परमम्) श्रेष्ठम् (जानन्) ज्ञापयन्ति। (जानतीः) तव नाम श्रेष्ठं ज्ञापयन्त्यः (ताः) प्रसिद्धाः (क्षाः) अर्थगर्भा वेदवाचः। क्षा क्षियतेर्निवासकर्मणः। निरु० २।६। क्षाययन्ति निवासयन्ति गूढमर्थं स्वात्मनि यास्ताः क्षाः। क्षि निवासगत्योः। (अभ्यनूषत) त्वां स्तुवन्ति। अत एव (गावः) ताः वेदवाचः (यशसा) त्वन्महिमगानजनितया कीर्त्या (अरुणीः) अरुण्यः आरोचमानाः सत्यः (आविर्भुवन्) अध्येतॄणां हृदि स्वार्थसमुद्घाटनेन प्रकटिता जायन्ते। तथा चोक्तम्—उ॒त त्वः॒ पश्य॒न्न द॑दर्श॒ वाच॑मु॒त त्वः॑ शृ॒ण्वन्न शृ॑णोत्येनाम्। उ॒तो त्व॑स्मै त॒न्वं विसस्रे जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः॑ ॥ ऋ० १०।७१।४ इति ॥५॥ अत्र ‘जानन्, जानतीः’ इत्युभयत्र ण्यर्थगर्भो ज्ञाधातुर्विज्ञेयः, वेदवाचामचेतनत्वेन ज्ञानासंभवात् ॥५॥

भावार्थभाषाः -

वेदवाचः संभूय यस्य परब्रह्मणो महिमानं गायं गायं न श्राम्यन्ति, यस्य च यशोमयस्य माहात्म्यकीर्तनेन ताः स्वयमपि यशोमय्यः सञ्जाताः, तन्महिमाऽस्माभिरपि कुतो न गेयः ॥५॥

टिप्पणी: १. ऋ० ४।१।१६, ‘ते मन्वत प्रथमं नाम धेनोस्त्रिःसप्त मातुः परमाणि विन्दन्। तज्जानतीरभ्यनूषत वा आविर्भुवदरुणीर्यशसा गोः’ ॥ इति पाठः। २. ‘ते’ इति पदं प्रसिद्धपरामर्शकम्। न च युष्मदादेशोऽयमिति मन्तव्यं पादादौ तस्याप्राप्तेः स्वरविरोधाच्च।